Varaha Stotram | वराह स्तोत्र | Vande Varaha Rupinam | Varah Stotra With Lyrics
#varaharoopam #varaha
श्रीवराहस्तोत्रम्
चिदानन्दघनं शुद्धं विश्वमङ्गलकारकम् ।
मोक्षहेतुं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ १॥
नेति नेति श्रुतिर्ब्रूते यस्य रूपं विनिर्णयन् ।
परब्रह्महितं विष्णुं वन्दे वाराहरूपिणम् ॥ २॥
तत्त्वमसीति वक्तारमाविर्भूतं जगत्पतिम् ।
श्रीसद्गुरुं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ३॥
रसातलगतां भूमिं गजः कमलिनीमिव ।
उद्दधार हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ४॥
अवधीद्यो हिरण्याक्षं विश्वकण्टकराक्षसम् ।
विश्वपालहितं विष्णुं वन्दे वाराहरूपिणम् ॥ ५॥
धर्मोद्धारावतारोऽयं सज्जनावनहेतुकम् ।
जगत्पतिं हितं विष्णुं वन्दे वाराहरूपिणम् ॥ ६॥
अत्यन्तकरुणासान्द्रं जगदुद्धारकं परम् ।
भवतारं हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ७॥
सदैवाक्लिष्टकर्माणं जगतस्स्थितिहेतवे ।
भवनौकां हि तं विष्णुं वन्दे वाराहरूपिणम् ॥ ८॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीवराहस्तोत्रं सम्पूर्णम् ।

Category
📚
Learning